|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.134. अध्यायः 134
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति प्रतिपदादितिथिषु श्राद्धकरणस्य प्रत्येकं फलकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव॥ 13-134-1(86630)
वैशम्पायन उवाच। 13-134-2x(7184)
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा।
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे॥ 13-134-2(86631)
भीष्म उवाच। 13-134-3x(7185)
शृणुष्वावहितो राजञ्श्राद्धकर्मविधिं शुभम्।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप॥ 13-134-3(86632)
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।
पिशाचकिन्नराणां च पूज्या वै पितरः सदा॥ 13-134-4(86633)
पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै।
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्सदा॥ 13-134-5(86634)
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते।
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः॥ 13-134-6(86635)
सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः।
`पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्।
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्॥ 13-134-7(86636)
पिण्डानां मासिकश्राद्धमन्वाहार्यं विदुर्बुधाः।
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिः शुचिः॥' 13-134-8(86637)
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यांतिथ्यां दिने गुणान्।
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ।
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे॥ 13-134-9(86638)
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः॥ 13-134-10(86639)
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे॥ 13-134-11(86640)
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः॥ 13-134-12(86641)
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्॥ 13-134-13(86642)
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु।
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः॥ 13-134-14(86643)
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि॥ 13-134-15(86644)
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते।
रजतं बहुवित्तं च सुवर्णं च मनोरमम्॥ 13-134-16(86645)
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम्॥ 13-134-17(86646)
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे।
युद्धभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं चतुर्दशीम्॥ 13-134-18(86647)
अमावास्यां तु निवपन्सर्वकामानवाप्नुयात्॥ 13-134-19(86648)
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्।
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः॥ 13-134-20(86649)
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते॥ ॥ 13-134-21(86650)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः॥ 134 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-134-5 आदितः अमावास्यायां। पश्चात्प्रतिपदि॥ 7-134-6 तच्चामिषेण विधिनेति क.ट.थ.ध.पाठः॥ 7-134-10 गृहे स्त्रियो भार्याः॥ 7-134-11 स्त्रियो दुहितरः॥ 7-134-12 भवन्ति द्यूतभागिन इति ट.थ.ध.पाठः॥ 7-134-15 कुप्यं वस्त्रपात्रादि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|